Contact Us

Name

Email *

Message *

Showing posts with label Atmarpanastuti (Unmatta Panchasati). Show all posts
Showing posts with label Atmarpanastuti (Unmatta Panchasati). Show all posts

Sunday, 4 December 2016

Atmarpanastuti - Sloka 50


आत्मार्पणस्तुतिरियं भगवन्निबद्धा
यद्यप्यनन्यमनसा न मया तथापि ।
वाचापि केवलमयं शरणं वृणीते
दीनो वराक इति रक्ष कृपानिधे माम् ॥ ५०॥

इति श्रीमदप्पय्यदीक्षितेन्द्राणां कृतिश्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा ।

Sunday, 27 November 2016

Atmarpanastuti - Sloka 49


सर्वं सदाशिव सहस्व ममापराधं
मग्नं समुद्धर महत्यमुमापदब्धौ ।
सर्वात्मना तव पदाम्बुजमेव दीनः
स्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ ४९॥

Sunday, 20 November 2016

Atmarpanastuti - Sloka 48


उदरभरणमात्रं साध्यमुद्दिश्य नीचे-
ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् ।
अहमिह नुतिभङ्गीमर्पयित्वोपहारं
तव चरणसरोजे तात जातोऽपराधी ॥ ४८॥

Sunday, 13 November 2016

Atmarpanastuti - Sloka 47


न किंचिन्मेनेऽतः समभिलषणीयं त्रिभुवने
सुखं वा दुःखं वा मम भवतु यद्भावि भगवन् ।
समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषिते
पदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ ४७॥

Sunday, 6 November 2016

Atmarpanastuti - Sloka 46


बलमबलममीषां बल्बजानां विचिन्त्यं
कथमपि शिव कालक्षेपमात्रप्रधानैः ।
निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात्
सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ ४६॥

Sunday, 30 October 2016

Atmarpanastuti - Sloka 45


विहर पितृवने वा विश्वपारे पुरे वा
रजतगिरितटे वा रत्नसानुस्थले वा ।
दिश भवदुपकण्ठं देहि मे भृत्यभावं
परमशिव तव श्रीपादुकावाहकानाम् ॥ ४५॥

Sunday, 23 October 2016

Atmarpanastuti - Sloka 44


विविधमपि गुणौघं वेदयन्त्यर्थवादाः
परिमितविभवानां पामराणां सुराणाम् ।
तनुहिमकरमौले तावता त्वत्परत्वे
कति कति जगदीशाः कल्पिता नो भवेयुः ॥ ४४॥

Sunday, 16 October 2016

Atmarpanastuti - Sloka 43


आलेपनं भसितमावसथः श्मशानं
अस्थीनि ते सततमाभरणानि सन्तु ।
निह्नोतुमीश सकलश्रुतिपारसिद्धं
ऐश्वर्यमम्बुजभवोऽपि च न क्षमस्ते ॥ ४३॥

Sunday, 9 October 2016

Atmarpanastuti - Sloka 42


भिक्षावृत्तिं चर पितृवने भूतसङ्घैर्भ्रमेदं
विज्ञातं ते चरितमखिलं विप्रलिप्सोः कपालिन् ।
आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वं
नाथ स्वप्नेऽप्यहमिह न ते पादपद्मं त्यजामि ॥ ४२॥

Sunday, 2 October 2016

Atmarpanastuti - Sloka 41


स्वप्ने वापि स्वरसविकसद्दिव्यपङ्केरुहाभं
पश्येयं किं तव पशुपते पादयुग्मं कदाचित् ।
क्वाहं पापः क्व तव चरणालोकभाग्यं तथापि
प्रत्याशां मे घटयति पुनर्विश्रुता तेऽनुकम्पा ॥ ४१॥

Sunday, 25 September 2016

Atmarpanastuti - Sloka 40


चारुस्मेराननसरसिजं चन्द्ररेखावतंसं
फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् ।
अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णं
लोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ ४०॥

Sunday, 18 September 2016

Atmarpanastuti - Sloka 39


अन्तर्बाष्पाकुलितनयनानन्तरङ्गानपश्यन्
अग्रे घोषं रुदितबहुलं कातराणामश्रुण्वन् ।
अत्युत्क्रान्तिश्रममगणयन् अन्तकाले कपर्दिन्
अङ्घ्रिद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा ॥ ३९॥

Sunday, 11 September 2016

Atmarpanastuti - Sloka 38


काले कण्ठस्फुरदसुकलालेशसत्तावलोक-
व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे।
अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो-
ऽप्यङिघ्रद्वन्द्वे तव निविशतामन्तरात्मन् ममात्मा॥ ३८॥

Sunday, 4 September 2016

Atmarpanastuti - Sloka 37


कीटा नागास्तरव इति वा किं न सन्ति स्थलेषु
त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु ।
तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिन्
आतोषान्मां मृड भवमहाङ्गारनद्यां लुठन्तम् ॥ ३७॥

Sunday, 28 August 2016

Atmarpanastuti - Sloka 36


न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीः
आस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ ।
त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैः
आरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ ३६॥

Sunday, 21 August 2016

Atmarpanastuti - Sloka 35


भुङ्क्षे गुप्तं बत सुखनिधिं तात साधारणं त्वं
भिक्षावृत्तिं परमभिनयन्मायया मां विभज्य ।
मर्यादायाः सकलजगतां नायकः स्थापकस्त्वं
युक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ ३५॥

Sunday, 14 August 2016

Atmarpanastuti - Sloka 34


माता तातः सुत इति समाबध्य मां मोहपाशै- 
रापात्यैवं भवजलनिधौ हा किमीश त्वयाऽऽप्तम् । 
एतावन्तं समयमियतीमार्तिमापादितेऽस्मिन् 
कल्याणी ते किमिति न कृपा कापि मे भाग्यरेखा ॥ ३४॥

Sunday, 7 August 2016

Atmarpanastuti - Sloka 33


एतावन्तं भ्रमणनिचयं प्रापितोऽयं वराकः
श्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् ।
कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगोऽयं
संताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ ३३॥

Sunday, 31 July 2016

Atmarpanastuti - Sloka 32


अत्यन्तार्तिव्यथितमगतिं देव मामुद्धरेति
क्षुण्णो मार्गस्तव शिव पुरा केन वाऽनाथनाथ ।
कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां
त्रायस्वैनं सपदि कृपया वस्तुतत्त्वं विचिन्त्य ॥ ३२॥

Sunday, 24 July 2016

Atmarpanastuti - Sloka 31


सर्वज्ञस्त्वं निरवधिकृपासागरः पूर्णशक्तिः 
कस्मादेनं न गणयसि मामापदब्धौ निमग्नम् । 
एकं पापात्मकमपि रुजा सर्वतोऽत्यन्तदीनं 
जन्तुं यद्युद्धरसि शिव कस्तावतातिप्रसङ्गः ॥ ३१॥